।।गोपी गीत।।
जयति तेडधिकं जन्मना व्रजःश्रयति इन्दिरा शश्वदत्र हि।
दयति दृश्यतां इक्षु तावका
स्तवयि धृतासवस्त्वां विचिन्वते।।1।।
शरदुदाशये साधुजातसत्
सरसिजेदरश्रीमुषा दृशा।
सुरतनाथ तेडशुल्कदासिका
वरद निध्नतो नेह किं वधः।।2।।
विषजलाप्ययाद् व्यालराक्षसाद्
वषॅमारूताद् वैधुतानलात्।
वृषमयात्मजद् विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः।।3।।
न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक्।
विखनसाडथितो विश्वगुप्तये
सख उदेयिवान् सात्वतां कुले।।4।।
विरचिताभयं वृष्णिधुयॅ ते
चरणमीयुषां संसृतेभॅयात्।
करसरोरूहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम्।।5।।
व्रजजनातिॅहन् वीर योषितां
निजजनस्मयध्वंसनस्मित
भज सखे भवत्किङरीः स्म नो
जलरूहाननं चारू दशॅय ।।6।।
प्रणतदेहिनां पापकशॅनं
तृणुचरानुगं श्रीनिकेतनम्।
फणिफणापॅितं ते पदाम्बुज
कृणु कुचेषु नः कृन्धि हृच्छयम्।।7।।
मधुरयागिरा वल्कुवाक्यया
बुधमनोतज्ञया पुष्करेक्षणं।
विधिकरीरिमा वीरमुह्यती-
रधरसीधुनाडडप्याययस्व नः।।8।।
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम्।
श्रवणमंङगलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः।।9।।
प्रहसितं प्रिय प्रेमवीतक्षणं
विहरणं च ते ध्यानमङ्ग्लम्
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि।।10।।
चलसि यद् व्रजच्चारयन् पशून्
नलिनसुन्दरं नाथ ते पदम्।
शिलतृणाङकुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति।।11।।
दिनपरिक्षये नीलकुन्तलै-
वॅनरूहाननं बिभ्रदावृतम्।
धनरजस्वलं दशॅयन् मुहुः
मॅनसि नः स्मरं वीर यच्छसि।।12।।
प्रणतकामदं पद्मजचितं
धरणिमण्डनं ध्येयमापदि।
चरणपङक्जं शन्तमं च ते
रमण नः स्तनेष्नपॅयाधिहन्।।13।।
सुरतवधॅनं शोकनाशनं
स्वरतवेणुना सुष्ठु चुम्बितम्।
इतररागविस्मारणं नृणां
वितर वीर नस्तेडधरामृतम्।।14।।
अटति यद् भवानह्नि काननं
त्रुटियुगायते त्वामपश्यताम्।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद् दृशैम्।।15।।
पतिसुतान्वयभ्रातृबान्दवा-
नतिविलङध्य तेडन्त्यच्युतागताः।
गतिविदस्तवोद् गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि।।16।।
रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम्।।
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः।।17।।
व्रजवनौकसां व्यकितरङग ते
वृजिनहन्त्रयलं विश्वमङग्लम्।
त्यज मनाक् च नस्तवत्स्पृहात्मनां
स्वजनहृदरूजं यन्निषूदनम्।।18।।
यत्ते सुजातचरणाम्बुरूहं स्तनेषु
भीताः शनैः प्रिय दधीमहि ककॅशेषु।
तेनाटवीमटसि तद् व्यथते न किंस्वित्
कूपाँदिभिभ्रमति धीभॅवदायुषां नः।।19।।
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूवाँधेँ रासक्रीडायां ||
गोपीगीतं नामैकत्रिंशोडध्यायः।।
No comments:
Post a Comment